Posts

1.32

तदप्यहो महाराष्ट्रहिन्दुस्थानभवेन वै। भाषायुग्मेन विहितं ततः सह्याद्रिमस्तकः।। तत् = That अपि = also अहो = Oh! महाराष्ट्र-हिन्दुस्थान-भवेन = by Maharasthra-hindusthana(northern India)-"artistic work" = by the artistic work in Marathi and Hindi वै=indeed  भाषा-युग्मेन = by the union of the languages विहितम् = conducted ततः=so सह्याद्रि-मस्तकः = sahyadri-forehead = Salher Oh! That (battle of) Salher too was described in the artistic work written in a combination of Marathi and Hindi

1.31

ततः कारञ्जनगरं श्रीकृष्णेन यथा पुरा। भागदत्तं पुरं तद्वल्लुण्ठयित्वा समागतम्।। ततः = Then कारञ्ज-नगरम् = Karanja-city श्री-कृष्णेन = by Lord Krishna यथा = like पुरा = once भागदत्तम् = belonging to  or created by bhagadatta पुरम् = city तद्वत् = in the same manner लुण्ठयित्वा = having stolen समागतम् = come Then just as Lord Krishna came having looted the city of Bhagadatta in the same manner was the city of Karanja looted.

1.30

ततः श्रीत्र्यम्बको नाम विख्यातः पुण्यपर्वतः। हर्षेण सह सोऽप्यस्मिन् प्रयाणे स्ववशीकृतः।। ततः = Then श्री-त्र्यम्बकः = Lord-Tryambaka नाम = by name विख्यातः = famous पुण्य-पर्वतः = holy-mountain हर्षेण = with happiness सह = with सः = He अपि =also अस्मिन् =  in this प्रयाणे = in travel स्व-वशीकृतः = self-captured = captured it himself Then He also captured the famous holy mountain called Tryambaka himself during his travels.

1.29

ततः श्रीमच्छिवेनेयं सुरती लुण्ठिता पुनः।  तद्धैन्दवमहाराष्ट्रभाषायुग्मेन वर्णितम्।। ततः = Then श्रीमत्-शिवेन = by Lord Shivaji इयम् = This सुरती = city of Surat   लुण्ठिता = stolen पुनः = again तत्-हैन्दव-महाराष्ट्र-भाषा-युग्मेन = by the-hindi-marathi-languages-pair = in the combination of Hindi and Marathi वर्णितम् = described Then the city of Surat was looted by Lord Shivaji was again described in the mixing of Hindi and Marathi languages.

1.28

तस्मादादौ महाराष्ट्रभाषया किल वर्णितम्।  इतो रायगडे गत्वा गृहीतं राजदर्शनम्।। तस्मात् = therefore आदौ =  in the beginning महाराष्ट्र-भाषया = by the Maharashtra-language = in Marathi किल = isn't it वर्णितम् = described इतः = from here रायगडे = in Raigad गत्वा = having gone गृहीतम् = taken राज-दर्शनम् = royal audience Therefore, in the beginning in the beginning it was described in Marathi isn't it? After this I received the royal audience after going to Raigad.

1.27

तत्सर्वं श्रोतुमिच्छामि भवन्तः कवयः खलु। कविरुवाच - मया द्वादशभाषाभिः कविकर्म विरच्यते।। तत् = That सर्वम् = everything श्रोतुम् = to hear इच्छामि = i want भवन्तः = all of you कवयः = poets खलु = indeed कविः = the poet उवाच = said मया = by me द्वादश-भाषाभिः = by 12-languages कविकर्म = kavikarma विरच्यते = is composed I want to hear everything and all of you are poets right?.  The poet said - I composed Kavikarma 12 languages 

1.26

इदानीं स्थीयते कस्मिन् महाराजेन पर्वते। वर्षत्रयमितो गत्वा भवद्भिर्यदनुष्ठितम्।। इदानीम् = Now स्थीयते = is stood (upon) कस्मिन् = by which महाराजेन = by King पर्वते = on the mountain वर्ष-त्रय-मितः = year-3-measured गत्वा = having gone भवद्भिः = by you (plural referring respectfully to the poet) यत् = which अनुष्ठितम् = observed Now which King stands upon the mountain now? Having gone For 3 years that which you have observed....